॥ कापुराची आरती ॥
कर्पूरगौरं करुणावतारं,
संसारसारं भुजगेन्द्रहारम् ।
सदावसन्तं हृदयारविन्दे,
भवं भवानीसहितं नमामि ॥१॥
मन्दारमालाकुलितालकायै कपालमालांकितकन्धराय ।
दिव्याम्बरायै च दिगम्बराय नम:
शिवायै च नम: शिवाय ॥२॥
श्री अखण्डानन्दबोधाय शोकसन्तापहारिणे ।
सच्चिदानन्दस्वरूपाय शंकराय नमो नम: ॥३॥
त्वमेव माता च पिता त्वमेव,
त्वमेव बंधू च सखा त्वमेव,
त्वमेव विद्या द्रविणं त्वमेव,
त्वमेव सर्वं मम देव देव ॥
कायेन वाचा मनसेंद्रियैर्वा,
बुध्यात्मना वा प्रकृतेः स्वभावात,
करोमि यध्य्त सकलं परस्मै,
नारायणायेति समर्पयामि ॥