Dhanada Stotra | धनदा स्तोत्र

Print Friendly, PDF & Email
5/5 - (1 vote)

|| धनदा स्तोत्र ||

उदयत्सूर्यप्रकाशामे उद्यदादित्यमण्डले ।
शिवतत्व प्रदे देवि धनदायै नमोऽस्तुते ॥

विष्णु रूपे विश्वमते विश्व पालन कारिणि।
महा सत्व गुणाक्रान्ते धनदायै नमोऽस्तुते ॥

शिव रुपे शिवानन्दे कारणानन्दविग्रहे ।
विश्व संहार रुपे च धनदायै नमोऽस्तुते॥

इदं स्तोत्रं मया प्रोक्तं साधकाभीष्ट दायकं ।
यःपठेत्पाठयेद वापिस लभेत्सकलं फलम्‌ ॥

त्रिसन्ध्यं यः पठेत्नित्यं स्तोत्र मेतत्समाहितः।
स सिद्धिं लभते शीघ्र नात्र कार्या विचारणा ॥

इदं रहस्यं परमं स्तोत्रं परम दुर्लभं ‌ ।
गोपनीयम्प्रयत्नेन स्वयोनिरिव पार्वति ॥

अप्रकाश्यमिदन्देविगोपनीयम्परात्परम्‌ ।
प्रपठन्न त्रासन्देहो धनवान जायतेऽचिरात्‌ ॥

।। इति धनदा स्तोत्रं ‌ समपूर्णम ।।

Share it:

Related Posts

Leave a Comment