Bala Raksa Stotra | गोपी कृत बाल रक्षा स्तोत्र

Print Friendly, PDF & Email
Rate this post

।। गोपी कृत बाल रक्षा स्तोत्र ।।

अव्यादजोऽङ्घ्रि मणिमांस्तव जान्वथोरू
यज्ञोऽच्युतः कटि-तटं जठरं हयास्यः ।

हृत्-केशव-स्त्व-दुर ईश इनस्तु कण्ठं
विष्णुर-भुजं मुख-मुरु-क्रम ईश्वरः कम् ॥१॥

चक्र्यग्रतः सहगदो हरि-रस्तु पश्चात्
त्वत-पार्श्व-योर्ध-नुरसी मधुहा-जनश्च ।
कोणेषु शङ्ख उरुगाय उपर-युपेन्द्रस्
तार्क्ष्यः क्षितौ हल-धरः पुरुषः समन्तात् ॥२॥

इन्द्रि-याणि हृषी-केशः प्राणान-नारायणोऽवतु ।
श्वेत-द्वीप-पति-श्चित्तं मनो योगे-श्वरोऽवतु ॥३॥

पृश्नि-गर्भ-स्तु ते बुद्धि-मात्मानं भगवान-परः ।
क्रीडन्तं पातु गोविन्दः शयानं पातु माधवः ॥४॥

व्रजन्त-मव्याद्-वैकुण्ठ आसीनं त्वां श्रियः पतिः ।
भुञ्जानं यज्ञ-भुक्पातु सर्व-ग्रहभयङ्करः ॥५॥

डाकिन्यो यातु-धान्यश्च कुष्माण्डा येऽर्भकग्रहाः ।
भूत-प्रेत-पिशाचाश्च यक्ष-रक्षो-विनायकाः ॥६॥

कोटरा रेवती ज्येष्ठा पूतना मातृकादयः ।
उन्मादा ये ह्यपस्मारा देहप्राणेन्द्रियद्रुहः ॥७॥

स्वप्न-दृष्टा महोत-पाता वृद्ध-बाल-ग्रहाश्च ये ।
सर्वे नश्यन्तु ते विष्णोर-नाम-ग्रहण-भीरवः ॥८॥

॥ इति श्री-मद्भागवते दशमस्कन्धे
गोपी कृत बाल रक्षा समाप्ता ॥

Share it:

Related Posts

Leave a Comment