Datta Stava Stotra | श्री दत्तस्तव स्तोत्र

Print Friendly, PDF & Email
Rate this post

॥ श्री दत्तस्तव स्तोत्र ॥

अनसूयात्रिसंभूत दत्तात्रेय महामते ।
सर्वदेवाधिदेवत्वं त्वं मम चित्तं स्थिरीकुरु ।।

शरणागतदीनार्थतारकाsखिलकारक ।
सर्वचालक देव त्वं मम चित्तं स्थिरीकुरु ।।

सर्वमंगलमांगल्य सर्वाधिव्याधिभेषज ।
सर्वसंकटहारिन् त्वं मम चित्तं स्थिरीकुरु ।।

स्मर्तुगामी स्वभक्तानां कामदो रिपुनाशनः ।
भुक्तिमुक्तिप्रदः स त्वं मम चित्तं स्थिरीकुरू।।

सर्वपापक्षयकरस्तापदैन्यनिवारणः ।
योsभिष्टदः प्रभुः स त्वं मम चित्तं स्थिरीकुरु।।

य एतत्प्रयतः श्लोकपंचकं प्रपठेत्सुधीः ।
स्थिरचितः स भगवत्कृपापात्रं भविष्यति ।।

।। इति श्री परमहंस परिव्राजकाचार्य श्री वासुदेवानंद सरस्वती विरचितं श्री दत्तात्रेय स्तोत्रं संपूर्णम् ।।

Share it:

Related Posts

Leave a Comment