Navnath Stotra | श्री नवनाथ स्तोत्र

Print Friendly, PDF & Email
5/5 - (1 vote)

॥ नवयोगीन्द्रनाथस्तोत्रम् ॥

वन्दे श्रीभगवद्रूपं कविं योगीन्द्रसंज्ञकम् ।
मच्छेन्द्रनाथं श्रीदत्तशिष्येन्द्रनवनाथकम् ॥१॥

वन्देहं भगवद्रूपं हरिं गोरक्षसंज्ञकम् ।
नाथं द्वितीयं मच्छेन्द्रशिष्येन्द्रं द्वैतवर्जितम् ॥२॥

वन्दे जालन्धरं नाथं योगीन्द्रं चान्तरिक्षकम् ।
तच्छिष्यं कानिफं वन्दे प्रबुद्धं बुद्धिनायकम् ॥३॥

वन्देहं चर्पटीनाथं पिप्पलायनसंज्ञकम् ।
आविर्होत्रं च योगीन्द्रनागनाथं नमाम्यहम् ॥४॥

नमो भर्तरीनाथाय योगीन्द्रद्रुमिलाय च ।
नमो रेवणसिद्धाय चमसाय च योगिने ॥५॥

नमो गहिनीनाथाय करभाजनयोगिने ।
प्रणमामि श्रीनिव्रुत्तिनाथं ज्ञानेश्वरं तथा ॥६॥

सोपानं मुक्तिजननीं दत्तछात्रपरम्पराम् ।
वन्दे दत्तगुरुं वासुदेवं गुरुपरात्परम् ॥७॥

योगिराजावतारं तं योगज्ञानाब्धिनाविकम् ।
मूलप्रकृतिकविष्ण्वीशावतारा: पान्तु न: सदा ॥८॥

इति नवयोगीन्द्रस्तोत्रम्

Share it:

Related Posts

Leave a Comment