Shani Stotra | श्री शनि कुल अशिर्वाद् स्तोत्र

Print Friendly, PDF & Email
Rate this post

॥ श्री शनि कुल अशिर्वाद् स्तोत्र ॥
गार्गेय कौशिकस्यापि पिप्पलादो महामुनिः ।
शनैश्चरकृता पीडा न भवति कदाचन ॥

क्रोडस्तु पिङ्गलो बभ्रुः कृष्णो रौद्रोऽन्तको यमः ।
शौरिः शनैश्चरो मन्दः पिप्पलादेन संयुतः ॥

एतानि शनिनामानि प्रातरुत्थाय यः पठेत् ।
तस्य शौरेः कृता पीडा न भवति कदाचन ॥

ध्वजनी धामनी चैव कङ्काली कलहप्रिया ।
कलही कण्टकी चापि अजा महिषी तुरङ्गमा ॥

नामानि शनिभार्याया नित्यं जपति यः पुमान् ।
तस्य दुःखा विनश्यन्ति सुखसौभाग्यं वर्धते ॥

धन्वा दधिमुखी भद्रा महामारी खरानना
कालरात्री महारुद्रा विष्टीश्च कुलपुत्रिका
भैरवी च महाकाली असुराणां क्षयंकरी ॥

द्वादशैव तू नामानि प्रातरुत्थाय यः पठेत ॥
न च व्याधीर्भवेत्तस्य रोगी रोगात प्रमुच्यते ॥
ग्रहाःसर्वे सर्वेऽनुकूलाः स्युर्न च विघ्ननादि जायते ॥
रणे राजकुले द्युते सर्वत्र विजयी भवेत् ॥

Share it:

Related Posts

Leave a Comment